Tuesday, March 30, 2010

सप्तदशोऽध्यायः


 
अर्जुन उवाच
 
ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः 
तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः ॥१७- १॥
 
श्रीभगवानुवाच
 
त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा 
सात्त्विकी राजसी चैव तामसी चेति तां शृणु ॥१७- २॥
 
सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत 
श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः  एव सः ॥१७- ३॥
 
यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः 
प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥१७- ४॥
 
अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः 
दम्भाहंकारसंयुक्ताः कामरागबलान्विताः ॥१७- ५॥
 
कर्षयन्तः शरीरस्थं भूतग्राममचेतसः 
मां चैवान्तःशरीरस्थं तान्विद्ध्यासुरनिश्चयान् ॥१७- ६॥
 
आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः 
यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु ॥१७- ७॥
 
आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः 
रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ॥१७- ८॥
 
कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः 
आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥१७- ९॥
 
यातयामं गतरसं पूति पर्युषितं  यत् 
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥१७- १०॥
 
अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो  इज्यते 
यष्टव्यमेवेति मनः समाधाय  सात्त्विकः ॥१७- ११॥
 
अभिसंधाय तु फलं दम्भार्थमपि चैव यत् 
इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥१७- १२॥
 
विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् 
श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥१७- १३॥
 
देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् 
ब्रह्मचर्यमहिंसा  शारीरं तप उच्यते ॥१७- १४॥
 
अनुद्वेगकरं वाक्यं सत्यं प्रियहितं  यत् 
स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥१७- १५॥
 
मनः प्रसादः सौम्यत्वं मौनमात्मविनिग्रहः 
भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ॥१७- १६॥
 
श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः 
अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते ॥१७- १७॥
 
सत्कारमानपूजार्थं तपो दम्भेन चैव यत् 
क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ॥१७- १८॥
 
मूढग्राहेणात्मनो यत्पीडया क्रियते तपः 
परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् ॥१७- १९॥
 
दातव्यमिति यद्दानं दीयतेऽनुपकारिणे 
देशे काले  पात्रे  तद्दानं सात्त्विकं स्मृतम् ॥१७- २०॥
 
यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः 
दीयते  परिक्लिष्टं तद्दानं राजसं स्मृतम् ॥१७- २१॥
 
अदेशकाले यद्दानमपात्रेभ्यश्च दीयते 
असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ॥१७- २२॥
 
ॐतत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः 
ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ॥१७- २३॥
 
तस्मादोमित्युदाहृत्य यजञदानतपःक्रियाः 
प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥१७- २४॥
 
तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः 
दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः ॥१७- २५॥
 
सद्भावे साधुभावे  सदित्येतत्प्रयुज्यते 
प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ॥१७- २६॥
 
यज्ञे तपसि दाने  स्थितिः सदिति चोच्यते 
कर्म चैव तदर्थीयं सदित्येवाभिधीयते ॥१७- २७॥
 
अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं  यत् 
असदित्युच्यते पार्थ   तत्प्रेत्य नो इह ॥१७- २८॥
 
 तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे 
रीकृष्णार्जुनसंवादे श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायः ॥१७॥

No comments: