Tuesday, March 30, 2010

नवमोऽध्यायः


 
श्रीभगवानुवाच
 
इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे 
ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥९- १॥
 
राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् 
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥९- २॥
 
अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप 
अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥९- ३॥
 
मया ततमिदं सर्वं जगदव्यक्तमूर्तिना 
मत्स्थानि सर्वभूतानि  चाहं तेष्ववस्थितः ॥९- ४॥
 
  मत्स्थानि भूतानि पश्य मे योगमैश्वरम् 
भूतभृन्न  भूतस्थो ममात्मा भूतभावनः ॥९- ५॥
 
यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् 
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥९- ६॥
 
सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् 
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥९- ७॥
 
प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः 
भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ॥९- ८॥
 
  मां तानि कर्माणि निबध्नन्ति धनंजय 
उदासीनवदासीनमसक्तं तेषु कर्मसु ॥९- ९॥
 
मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् 
हेतुनानेन कौन्तेय जगद्विपरिवर्तते ॥९- १०॥
 
अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् 
परं भावमजानन्तो मम भूतमहेश्वरम् ॥९- ११॥
 
मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः 
राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥९- १२॥
 
महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः 
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥९- १३॥
 
सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः 
नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ॥९- १४॥
 
ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते 
एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥९- १५॥
 
अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम् 
मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् ॥९- १६॥
 
पिताहमस्य जगतो माता धाता पितामहः 
वेद्यं पवित्रमोंकार ऋक्साम यजुरेव  ॥९- १७॥
 
गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् 
प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ॥९- १८॥
 
तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि  
अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ॥९- १९॥
 
त्रैविद्या मां सोमपाः पूतपापा
: यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते 
ते पुण्यमासाद्य सुरेन्द्रलोक-
: मश्नन्ति दिव्यान्दिवि देवभोगान् ॥९- २०॥
 
ते तं भुक्त्वा स्वर्गलोकं विशालं
: क्षीणे पुण्ये मर्त्यलोकं विशन्ति 
एवं त्रयीधर्ममनुप्रपन्ना
: गतागतं कामकामा लभन्ते ॥९- २१॥
 
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते 
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥९- २२॥
 
येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः 
तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥९- २३॥
 
अहं हि सर्वयज्ञानां भोक्ता  प्रभुरेव  
 तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ॥९- २४॥
 
यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः 
भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥९- २५॥
 
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति 
तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥९- २६॥
 
यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् 
यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥९- २७॥
 
शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः 
संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ॥९- २८॥
 
समोऽहं सर्वभूतेषु  मे द्वेष्योऽस्ति  प्रियः 
ये भजन्ति तु मां भक्त्या मयि तेषु चाप्यहम् ॥९- २९॥
 
अपि चेत्सुदुराचारो भजते मामनन्यभाक् 
साधुरेव  मन्तव्यः सम्यग्व्यवसितो हि सः ॥९- ३०॥
 
क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति 
कौन्तेय प्रति जानीहि  मे भक्तः प्रणश्यति ॥९- ३१॥
 
मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः 
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥९- ३२॥
 
किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा 
अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ॥९- ३३॥
 
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु 
मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ॥९- ३४॥
 
 तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुनसंवादे राजविद्याराजगुह्ययोगो नाम नवमोऽध्यायः ॥९॥

No comments: