Tuesday, March 30, 2010

दशमोऽध्यायः


 
श्रीभगवानुवाच
 
भूय एव महाबाहो शृणु मे परमं वचः 
यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥१०- १॥
 
 मे विदुः सुरगणाः प्रभवं  महर्षयः 
अहमादिर्हि देवानां महर्षीणां  सर्वशः ॥१०- २॥
 
यो मामजमनादिं  वेत्ति लोकमहेशवरम् 
असंमूढः  मर्त्येषु सर्वपापैः प्रमुच्यते ॥१०- ३॥
 
बुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः 
सुखं दुःखं भवोऽभावो भयं चाभयमेव  ॥१०- ४॥
 
अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः 
भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ॥१०- ५॥
 
महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा 
मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ॥१०- ६॥
 
एतां विभूतिं योगं  मम यो वेत्ति तत्त्वतः 
सोऽविकम्पेन योगेन युज्यते नात्र संशयः ॥१०- ७॥
 
अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते 
इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥१०- ८॥
 
मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् 
कथयन्तश्च मां नित्यं तुष्यन्ति  रमन्ति  ॥१०- ९॥
 
तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् 
ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥१०- १०॥
 
तेषामेवानुकम्पार्थमहमज्ञानजं तमः 
नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥१०- ११॥
 
अर्जुन उवाच
 
परं ब्रह्म परं धाम पवित्रं परमं भवान् 
पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ॥१०- १२॥
 
आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा 
असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ॥१०- १३॥
 
सर्वमेतदृतं मनये यन्मां वदसि केशव 
 हि ते भगवन्व्यक्तिं विदुर्देवा  दानवाः ॥१०- १४॥
 
स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम 
भूतभावन भूतेश देवदेव जगत्पते ॥१०- १५॥
 
वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः 
याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ॥१०- १६॥
 
कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् 
केषु केषु  भावेषु चिन्त्योऽसि भगवन्मया ॥१०- १७॥
 
विस्तरेणात्मनो योगं विभूतिं  जनार्दन 
भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् ॥१०- १८॥
 
श्रीभगवानुवाच
 
हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः 
प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ॥१०- १९॥
 
अहमात्मा गुडाकेश सर्वभूताशयस्थितः 
अहमादिश्च मध्यं  भूतानामन्त एव  ॥१०- २०॥
 
आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् 
मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ॥१०- २१॥
 
वेदानां सामवेदोऽस्मि देवानमस्मि वासवः 
इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥१०- २२॥
 
रुद्राणां शंकरश्चास्मि वित्तेशो यक्षरक्षसाम् 
वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् ॥१०- २३॥
 
पुरोधसां  मुख्यं मां विद्धि पार्थ बृहस्पतिम् 
सेनानीनामहं स्कन्दः सरसामस्मि सागरः ॥१०- २४॥
 
महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् 
यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः ॥१०- २५॥
 
अश्वत्थः सर्ववृक्षाणां देवर्षीणां  नारदः 
गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ॥१०- २६॥
 
उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् 
ऐरावतं गजेन्द्राणां नराणां  नराधिपम् ॥१०- २७॥
 
आयुधानामहं वज्रं धेनूनामस्मि कामधुक् 
प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः ॥१०- २८॥
 
अनन्तश्चास्मि नागानां वरुणो यादसामहम् 
पितॄणामर्यमा चास्मि यमः संयमतामहम् ॥१०- २९॥
 
प्रह्लादश्चास्मि दैत्यानां कालकलयतामहम् 
मृगाणां  मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ॥१०- ३०॥
 
पवनः पवतमस्मि रामः शस्त्रभृतामहम् 
झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ॥१०- ३१॥
 
सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन ।
अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ॥१०- ३२॥
 
अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च ।
अहमेवाक्षयः कालो धाताहं विश्वतोमुखः ॥१०- ३३॥
 
मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् ।
कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा ॥१०- ३४॥
 
बृहत्साम तथा साम्नां गायत्री छन्दसामहम् ।
मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः ॥१०- ३५॥
 
द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् ।
जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् ॥१०- ३६॥
 
वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनंजयः ।
मुनीनामप्यहं व्यासः कवीनामुशना कविः ॥१०- ३७॥
 
दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् ।
मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ॥१०- ३८॥
 
यच्चापि सर्वभूतानां बीजं तदहमर्जुन ।
न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ॥१०- ३९॥
 
नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप ।
एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ॥१०- ४०॥
 
यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा ।
तत्तदेवावगच्छ त्वं मम तेजोंऽशसंभवम् ॥१०- ४१॥
 
अथवा बहुनैतेन किं ज्ञातेन तवार्जुन ।
विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ॥१०- ४२॥
 
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुनसंवादे विभूतियोगो नाम दशमोऽध्यायः ॥ १० ॥

No comments: