Tuesday, March 30, 2010

सप्तमोऽध्यायः


 
श्रीभगवानुवाच
 
मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः 
असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥७- १॥
 
ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः 
यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते ॥७- २॥
 
मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये 
यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ॥७- ३॥
 
भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव  
अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥७- ४॥
 
अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् 
जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥७- ५॥
 
एतद्योनीनि भूतानि सर्वाणीत्युपधारय 
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥७- ६॥
 
मत्तः परतरं नान्यत्किंचिदस्ति धनंजय 
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥७- ७॥
 
रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः 
प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥७- ८॥
 
पुण्यो गन्धः पृथिव्यां  तेजश्चास्मि विभावसौ 
जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ॥७- ९॥
 
बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् 
बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ॥७- १०॥
 
बलं बलवतां चाहं कामरागविवर्जितम् 
धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥७- ११॥
 
ये चैव सात्त्विका भावा राजसास्तामसाश्च ये 
मत्त एवेति तान्विद्धि  त्वहं तेषु ते मयि ॥७- १२॥
 
त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् 
मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥७- १३॥
 
दैवी ह्येषा गुणमयी मम माया दुरत्यया 
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥७- १४॥
 
 मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः 
माययापहृतज्ञाना आसुरं भावमाश्रिताः ॥७- १५॥
 
चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन 
आर्तो जिज्ञासुरर्थार्थी ज्ञानी  भरतर्षभ ॥७- १६॥
 
तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते 
प्रियो हि ज्ञानिनोऽत्यर्थमहं   मम प्रियः ॥७- १७॥
 
उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् 
आस्थितः  हि युक्तात्मा मामेवानुत्तमां गतिम् ॥७- १८॥
 
बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते 
वासुदेवः सर्वमिति  महात्मा सुदुर्लभः ॥७- १९॥
 
कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः 
तं तं नियममास्थाय प्रकृत्या नियताः स्वया ॥७- २०॥
 
यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति 
तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥७- २१॥
 
 तया श्रदधया युक्तस्तस्याराधनमीहते 
लभते  ततः कामान्मयैव विहितान्हि तान् ॥७- २२॥
 
अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् 
देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि ॥७- २३॥
 
अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः 
परं भावमजानन्तो ममाव्ययमनुत्तमम् ॥७- २४॥
 
नाहं प्रकाशः सर्वस्य योगमायासमावृतः 
मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ॥७- २५॥
 
वेदाहं समतीतानि वर्तमानानि चार्जुन 
भविष्याणि  भूतानि मां तु वेद  कश्चन ॥७- २६॥
 
इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत 
सर्वभूतानि संमोहं सर्गे यान्ति परन्तप ॥७- २७॥
 
येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् 
ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः ॥७- २८॥
 
जरामरणमोक्षाय मामाश्रित्य यतन्ति ये 
ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् ॥७- २९॥
 
साधिभूताधिदैवं मां साधियज्ञं  ये विदुः 
प्रयाणकालेऽपि  मां ते विदुर्युक्तचेतसः ॥७- ३०॥
 
 तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुनसंवादे ज्ञानविज्ञानयोगो नाम सप्तमोऽध्यायः   

No comments: