Tuesday, March 30, 2010

अथैकादशोऽध्यायः


 
अर्जुन उवाच
  
मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम् 
यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥११- १॥
 
भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया 
त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ॥११- २॥
 
एवमेतद्यथात्थ त्वमात्मानं परमेश्वर 
द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ॥११- ३॥
 
मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो 
योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् ॥११- ४॥
 
श्रीभगवानुवाच
 
पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः 
नानाविधानि दिव्यानि नानवर्णाकृतीनि  ॥११- ५॥
 
पश्यादित्यान्वसून्रुद्रानश्विनौ मरुतस्तथा 
बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत ॥११- ६॥
 
इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् 
मम देहे गुडाकेश यच्चान्यद् द्रष्टुमिच्छसि ॥११- ७॥
 
 तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा 
दिवयं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ॥११- ८॥
 
संजय उवाच
 
एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः 
दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥११- ९॥
 
अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् 
अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ॥११- १०॥
 
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् 
सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् ॥११- ११॥
 
दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता 
यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः ॥११- १२॥
 
तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा 
अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ॥११- १३॥
 
ततः  विस्मयाविष्टो हृष्टरोमा धनंजयः 
प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ॥११- १४॥
 
अर्जुन उवाच
 
पश्यामि देवांस्तव देव देहे
: सर्वांस्तथा भूतविशेषसंघान् 
ब्रह्माणमीशं कमलासनस्थ-
: मृषींश्च सर्वानुरगांश्च दिव्यान् ॥११- १५॥
 
अनेकबाहूदरवक्त्रनेत्रं
: पश्यामि त्वां सर्वतोऽनन्तरूपम् 
नान्तं  मध्यं  पुनस्तवादिं
: पश्यामि विश्वेश्वर  विश्वरूप ॥११- १६॥
 
किरीटिनं गदिनं चक्रिणं 
: तेजोराशिं सर्वतो दीप्तिमन्तम् 
पश्यामि त्वां दुर्निरीक्ष्यं समन्ता-
: द्दीप्तानलार्कद्युतिमप्रमेयम् ॥११- १७॥
 
त्वमक्षरं परमं वेदितव्यं
: त्वमस्य विश्वस्य परं निधानम् 
त्वमव्ययः शाश्वतधर्मगोप्ता
: सनातनस्त्वं पुरुषो मतो मे ॥११- १८॥
 
अनादिमध्यान्तमनन्तवीर्य-
: मनन्तबाहुं शशिसूर्यनेत्रम् 
पश्यामि त्वां दीप्तहुताशवक्त्रं
: स्वतेजसा विश्वमिदं तपन्तम् ॥११- १९॥
 
द्यावापृथिव्योरिदमन्तरं हि
: व्याप्तं त्वयैकेन दिशश्च सर्वाः 
दृष्ट्वाद्भुतं रूपमुग्रं तवेदं
: लोकत्रयं प्रव्यथितं महात्मन् ॥११- २०॥
 
अमी हि त्वां सुरसंघा विशन्ति
: केचिद्भीताः प्राञ्जलयो गृणन्ति 
स्वस्तीत्युक्त्वा महर्षिसिद्धसंघाः
: स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥११- २१॥
 
रुद्रादित्या वसवो ये  साध्या
: विश्वेऽश्विनौ मरुतश्चोष्मपाश्च 
गन्धर्वयक्षासुरसिद्धसंघा
: वीक्षन्ते त्वां विस्मिताश्चैव सर्वे ॥११- २२॥
 
रूपं महत्ते बहुवक्त्रनेत्रं
: महाबाहो बहुबाहूरुपादम् 
बहूदरं बहुदंष्ट्राकरालं
: दृष्ट्वा लोकाः प्रव्यथितास्तथाहम् ॥११- २३॥
 
नभःस्पृशं दीप्तमनेकवर्णं
: व्यात्ताननं दीप्तविशालनेत्रम् 
दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा
: धृतिं  विन्दामि शमं  विष्णो ॥११- २४॥
 
दंष्ट्राकरालानि  ते मुखानि
: दृष्ट्वैव कालानलसन्निभानि 
दिशो  जाने  लभे  शर्म
: प्रसीद देवेश जगन्निवास ॥११- २५॥
 
अमी  त्वां धृतराष्ट्रस्य पुत्राः
: सर्वे सहैवावनिपालसंघैः 
भीष्मो द्रोणः सूतपुत्रस्तथासौ
: सहास्मदीयैरपि योधमुख्यैः ॥११- २६॥
 
वक्त्राणि ते त्वरमाणा विशन्ति
: दंष्ट्राकरालानि भयानकानि 
केचिद्विलग्ना दशनान्तरषु
: संदृश्यन्ते चूर्णितैरुत्तमाङ्गैः ॥११- २७॥
 
यथा नदीनां बहवोऽम्बुवेगाः
: समुद्रमेवाभिमुखा द्रवन्ति 
तथा तवामी नरलोकवीरा
: विशन्ति वक्त्राण्यभिविज्वलन्ति ॥११- २८॥
 
यथा प्रदीप्तं ज्वलनं पतङ्गा
: विशन्ति नाशाय समृद्धवेगाः 
तथैव नाशाय विशन्ति लोका-
: स्तवापि वक्त्राणि समृद्धवेगाः ॥११- २९॥
 
लेलिह्यसे ग्रसमानः समन्ता-
: ल्लोकान्समग्रान्वदनैर्ज्वलद्भिः 
तेजोभिरापूर्य जगत्समग्रं
: भासस्तवोग्राः प्रतपन्ति विष्णो ॥११- ३०॥
 
आख्याहि मे को भवानुग्ररूपो
: नमोऽस्तु ते देववर प्रसीद 
विज्ञातुमिच्छामि भवन्तमाद्य
:  हि प्रजानामि तव प्रवृत्तिम् ॥११- ३१॥
 
श्रीभगवानुवाच
 
कालोऽस्मि लोकक्षयकृत्प्रवृद्धो
: लोकान्समाहर्तुमिह प्रवृत्तः 
ऋतेऽपि त्वां  भविष्यन्ति सर्वे
: येऽवस्थिताः प्रत्यनीकेषु योधाः ॥११- ३२॥
 
तस्मात्त्वमुत्तिष्ठ यशो लभस्व
: जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् 
मयैवैते निहताः पूर्वमेव
: निमित्तमात्रं भव सव्यसाचिन् ॥११- ३३॥
 
द्रोणं  भीष्मं  जयद्रथं 
: कर्णं तथान्यानपि योधवीरान् 
मया हतांस्त्वं जहि मा व्यथिष्ठा
: युध्यस्व जेतासि रणे सपत्नान् ॥११- ३४॥
 
संजय उवाच
 
एतच्छ्रुत्वा वचनं केशवस्य
: कृताञ्जलिर्वेपमानः किरीटी 
नमस्कृत्वा भूय एवाह कृष्णं
: सगद्गदं भीतभीतः प्रणम्य ॥११- ३५॥
 
अर्जुन उवाच
 
स्थाने हृषीकेश तव प्रकीर्त्या
: जगत्प्रहृष्यत्यनुरज्यते  
रक्षांसि भीतानि दिशो द्रवन्ति
: सर्वे नमस्यन्ति  सिद्धसंघाः ॥११- ३६॥
 
कस्माच्च ते  नमेरनमहात्मन्
: गरीयसे ब्रह्मणोऽप्यादिकर्त्रे 
अनन्त देवेश जगन्निवास
: त्वमक्षरं सदसत्तत्परं यत् ॥११- ३७॥
 
त्वमादिदेवः पुरुषः पुराण-
: स्त्वमस्य विश्वस्य परं निधानम् 
वेत्तासि वेद्यं  परं  धाम
: त्वया ततं विश्वमनन्तरूप ॥११- ३८॥
 
वायुर्यमोऽग्निर्वरुणः शशाङ्कः
: प्रजापतिस्त्वं प्रपितामहश्च 
नमो नमस्तेऽस्तु सहस्रकृत्वः
: पुनश्च भूयोऽपि नमो नमस्ते ॥११- ३९॥
 
नमः पुरस्तादथ पृष्ठतस्ते
: नमोऽस्तु ते सर्वत एव सर्व 
अनन्तवीर्यामितविक्रमस्त्वं
: सर्वं समाप्नोषि ततोऽसि सर्वः ॥११- ४०॥
 
सखेति मत्वा प्रसभं यदुक्तं
: हे कृष्ण हे यादव हे सखेति 
अजानता महिमानं तवेदं
: मया प्रमादात्प्रणयेन वापि ॥११- ४१॥
 
यच्चावहासार्थमसत्कृतोऽसि
: विहारशय्यासनभोजनेषु 
एकोऽथवाप्यच्युत तत्समक्षं
: तत्क्षामये त्वामहमप्रमेयम् ॥११- ४२॥
 
पितासि लोकस्य चराचरस्य
: त्वमस्य पूज्यश्च गुरुर्गरीयान् 
 त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो
: लोकत्रयेऽप्यप्रतिमप्रभाव ॥११- ४३॥
 
तस्मात्प्रणम्य प्रणिधाय कायं
: प्रसादये त्वामहमीशमीड्यम् 
पितेव पुत्रस्य सखेव सख्युः
: प्रियः प्रियायार्हसि देव सोढुम् ॥११- ४४॥
 
अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा
: भयेन  प्रव्यथितं मनो मे 
तदेव मे दर्शय देव रूपं
: प्रसीद देवेश जगन्निवास ॥११- ४५॥
 
किरीटिनं गदिनं चक्रहस्त-
: मिच्छामि त्वां द्रष्टुमहं तथैव 
तेनैव रूपेण चतुर्भुजेन
: सहस्रबाहो भव विश्वमूर्ते ॥११- ४६॥
 
श्रीभगवानुवाच
 
मया प्रसन्नेन तवार्जुनेदं
: रूपं परं दर्शितमात्मयोगात् 
तेजोमयं विश्वमनन्तमाद्यं
: यन्मे त्वदन्येन  दृष्टपूर्वम् ॥११- ४७॥
 
 वेदयज्ञाध्ययनैर्न दानै-
: र्न  क्रियाभिर्न तपोभिरुग्रैः 
एवंरूपः शक्य अहं नृलोके
: द्रष्टुं त्वदन्येन कुरुप्रवीर ॥११- ४८॥
 
मा ते व्यथा मा  विमूढभावो
: दृष्ट्वा रूपं घोरमीदृङ्ममेदम् 
व्यपेतभीः प्रीतमनाः पुनस्त्वं
: तदेव मे रूपमिदं प्रपश्य ॥११- ४९॥
 
संजय उवाच
 
इत्यर्जुनं वासुदेवस्तथोक्त्वा
: स्वकं रूपं दर्शयामास भूयः 
आश्वासयामास  भीतमेनं
: भूत्वा पुनः सौम्यवपुर्महात्मा ॥११- ५०॥
 
अर्जुन उवाच
 
दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन 
इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः ॥११- ५१॥
 
श्रीभगवानुवाच
 
सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम 
देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ॥११- ५२॥
 
नाहं वेदैर्न तपसा  दानेन  चेज्यया 
शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ॥११- ५३॥
 
भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन 
ज्ञातुं द्रष्टुं  तत्त्वेन प्रवेष्टुं  परंतप ॥११- ५४॥
 
मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः 
निर्वैरः सर्वभूतेषु यः  मामेति पाण्डव ॥११- ५५॥
 
 तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुनसंवादे विश्वरूपदर्शनयोगो नामैकादशोऽध्यायः  ११ 

No comments: