Tuesday, March 30, 2010

चतुर्थोऽध्यायः


इमं विवस्वते योगं प्रोक्तवानहमव्ययम् 
विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ॥४-१॥
 
एवं परम्पराप्राप्तमिमं राजर्षयो विदुः 
 कालेनेह महता योगो नष्टः परन्तप ॥४-२॥
 
 एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः 
भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥४-३॥
 
अर्जुन उवाच
 
अपरं भवतो जन्म परं जन्म विवस्वतः 
कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥४-४॥
 
श्रीभगवानुवाच
 
बहूनि मे व्यतीतानि जन्मानि तव चार्जुन 
तान्यहं वेद सर्वाणि  त्वं वेत्थ परन्तप ॥४-५॥
 
अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् 
प्रकृतिं स्वामधिष्ठाय संभवाम्यात्ममायया ॥४-६॥
 
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत 
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥४-७॥
 
परित्राणाय साधूनां विनाशाय  दुष्कृताम् 
धर्मसस्थापनार्थाय सम्भवामि युगे युगे ॥४-८॥
 
जन्म कर्म  मे दिव्यमेवं यो वेत्ति तत्त्वतः 
त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥४-९॥
 
वीतरागभयक्रोधा मन्मया मामुपाश्रिताः 
बहवो ज्ञानतपसा पूता मद्भावमागताः ॥४-१०॥
 
ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् 
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥४-११॥
 
काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः 
क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥४-१२॥
 
चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः 
तस्य कर्तारमपि मां िद्ध्यकर्तारमव्ययम् ॥४-१३॥
 
 मां कर्माणि लिम्पन्ति  मे कर्मफले स्पृहा 
इति मां योऽभिजानाति कर्मभिर्न  बध्यते ॥४-१४॥
 
एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः 
कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ॥४-१५॥
 
किं कर्म किमकर्मेति कवयोऽप्यत्र हिताः 
तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥४-१६॥
 
कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं  विकर्मणः 
अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥४-१७॥
 
कर्मण्यकर्म यः पश्येदकर्मणि  कर्म यः 
 बुद्धिमान्मनुष्येषु  युक्तः कृत्स्नकर्मकृत् ॥४-१८॥
 
यस्य सर्वे समारम्भाः कामसंकल्पवर्जिताः 
ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ॥४-१९॥
 
त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः 
कर्मण्यभिप्रवृत्तोऽपि नैव किंचित्करोति सः ॥४-२०॥
 
निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः 
शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥४-२१॥
 
यदृच्छालाभसंतुष्टो द्वन्द्वातीतो विमत्सरः 
समः सिद्धावसिद्धौ  कृत्वापि  निबध्यते ॥४-२२॥
 
गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः 
यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥४-२३॥
 
ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् 
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥४-२४॥
 
दैवमेवापरे यज्ञं योगिनः पर्युपासते 
ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ॥४-२५॥
 
श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति 
शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति ॥४-२६॥
 
सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे 
आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ॥४-२७॥
 
द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे 
स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ॥४-२८॥
 
अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे 
प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ॥४-२९॥
 
अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति 
सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः ॥४-३०॥
 
यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् 
नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम ॥४-३१॥
 
एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे 
कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे ॥४-३२॥
 
श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप 
सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥४-३३॥
 
तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया 
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥४-३४॥
 
यज्ज्ञात्वा  पुनर्मोहमेवं यास्यसि पाण्डव 
येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ॥४-३५॥
 
अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः 
सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि ॥४-३६॥
 
यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन 
ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥४-३७॥
 
 हि ज्ञानेन सदृशं पवित्रमिह विद्यते 
तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥४-३८॥
 
श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः 
ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥४-३९॥
 
अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति 
नायं लोकोऽस्ति  परो  सुखं संशयात्मनः ॥४-४०॥
 
योगसंन्यस्तकर्माणं ज्ञानसंछिन्नसंशयम् 
आत्मवन्तं  कर्माणि निबध्नन्ति धनंजय ॥४-४१॥
 
तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः 
छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ॥४-४२॥
 
 तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुनसंवादे ज्ञानकर्मसंन्यासयोगो नाम चतुर्थोऽध्यायः   

No comments: