Tuesday, March 30, 2010

द्वादशोऽध्यायः


 
अर्जुन उवाच
 
एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते 
ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ॥१२- १॥
 
श्रीभगवानुवाच
 
मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते 
श्रद्धया परयोपेतास्ते मे युक्ततमा मताः ॥१२- २॥
 
ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते 
सर्वत्रगमचिन्त्यं  कूटस्थमचलं ध्रुवम् ॥१२- ३॥
 
संनियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः 
ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ॥१२- ४॥
 
क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् 
अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ॥१२- ५॥
 
ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः 
अनन्येनैव योगेन मां ध्यायन्त उपासते ॥१२- ६॥
 
तेषामहं समुद्धर्ता मृत्युसंसारसागरात् 
भवामि नचिरात्पार्थ मय्यावेशितचेतसाम् ॥१२- ७॥
 
मय्येव मन आधत्स्व मयि बुद्धिं निवेशय 
निवसिष्यसि मय्येव अत ऊर्ध्वं  संशयः ॥१२- ८॥
 
अथ चित्तं समाधातुं  शक्नोषि मयि स्थिरम् 
अभ्यासयोगेन ततो मामिच्छाप्तुं धनंजय ॥१२- ९॥
 
अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव 
मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि ॥१२- १०॥
 
अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः 
सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ॥१२- ११॥
 
श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते 
ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ॥१२- १२॥
 
अद्वेष्टा सर्वभूतानां मैत्रः करुण एव  
निर्ममो निरहंकारः समदुःखसुखः क्षमी ॥१२- १३॥
 
संतुष्टः सततं योगी यतात्मा दृढनिश्चयः 
मय्यर्पितमनोबुद्धिर्यो मद्भक्तः  मे प्रियः ॥१२- १४॥
 
यस्मान्नोद्विजते लोको लोकान्नोद्विजते  यः 
हर्षामर्षभयोद्वेगैर्मुक्तो यः   मे प्रियः ॥१२- १५॥
 
अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः 
सर्वारम्भपरित्यागी यो मद्भक्तः  मे प्रियः ॥१२- १६॥
 
यो  हृष्यति  द्वेष्टि  शोचति  काङ्क्षति 
शुभाशुभपरित्यागी भक्तिमान्यः  मे प्रियः ॥१२- १७॥
 
समः शत्रौ  मित्रे  तथा मानापमानयोः 
शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ॥१२- १८॥
 
तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित् 
अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः ॥१२- १९॥
 
ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते 
श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः ॥१२- २०॥
 
 तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे 
श्रीकृष्णार्जुनसंवादे भक्तियोगो नाम द्वादशऽध्यायः  १२ 

No comments: